es
Feedback
संस्कृत संवादः । Sanskrit Samvadah

संस्कृत संवादः । Sanskrit Samvadah

Ir al canal en Telegram

Largest Online Sanskrit Network Our Links – https://t.me/samvadah/11287 Linked group @samskrta_group News and magazines @ramdootah Super group @Ask_sanskrit Sanskrit Books @GranthaKutee

Mostrar más
6 152
Suscriptores
+124 horas
+107 días
+5130 días
Archivo de publicaciones
ओषधिपरिचयः #samlapshala

@samvadah organises संलापशाला - A Sanskrit Voicechat Room 🔰विषयः  तेलङ्गाना आन्ध्रप्रदेशश्च 🗓३०/०६/२०२६ ॥ IST ११:०० AM    🔴 It's recording would be shared on our channel. 📑कृपया दैववाचा चर्चार्थं तेलङ्गाना आन्ध्रप्रदेशश्च राज्ययोः विषये वक्तव्यम् इत्येतं विषयम् अभिक्रम्य आगच्छत। https://t.me/samvadah?livestream पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः https://archive.org/details/samlapshala_

१। किमस्मिन् बिले सर्पो वसति। • Does a snake dwell in this hole? • क्या इस बिल में साँप रहता है? २। तदा स भूतो मां धूम्रदण्डिकाम् अयाचत्। • Then that ghost asked me for a cigarette. • तब उस भूत ने मुझसे बीड़ी माँगी। ३। पितुः मुखं दृष्ट्वा बालिका रोदनात् व्यरमत्। • Having seen the face of the father, the girl stopped crying. • पिता का मुँह देखकर बच्ची ने रोना बंद कर दिया। ४। शिवेति मन्त्रमुच्चरन् कदा सुखी भवाम्यहम्। • Uttering the mantra "Shiva," when will I become content? • "शिव" मंत्र को जपते हुए मैं कब सुखी होऊँगा? ५। एतावन्तं नटनं केन शिक्षितं कान्त। • By whom was so much drama taught, beloved? • इतना नाटक करना किसने सिखाया, प्रिय? ६। कपिलो भ्रकुंसान् आह्वयति।Kapila calls the actors who dress in female attire. • कपिल स्त्री का रूप धरने वाले नटों को बुलाता है। ७। राष्ट्रियो राजानं पीडयति। • The king's brother-in-law torments the king. • राजा का साला राजा को सताता है। ८। ज्ञानेन गर्व्विता सा न वरणीया। • She, proud of knowledge, is not to be chosen (married). • ज्ञान से घमंडी वह ब्याहने योग्य नहीं है। ९। मूढ ब्राह्मणम् अनाद्रियसे। • Fool, you disregard a Brahmana. • मूर्ख! तुम ब्राह्मण का अनादर करते हो। १०। त्वं कीदृशो मातुलोऽसि कंसावतार। • What kind of uncle are you, Incarnation of Kamsa? • तुम कैसे मामा हो, कंस के अवतार? @samvadah #vakyabhyas

जवनिकायां निगूढः बालः मातरं भापयति। किं पदं दुष्टम्।
Anonymous voting

🌿 अनन्तख्यातिसंपन्नः शुद्धसत्त्वः सधीबलः। धत्ते बहुमुखं भोगं श्रुतिदृष्टिस्थिराशयः॥ 🌞 अनन्तख्यातिसंपन्नः अतियशस्वी शुद्धसत्त्वः शुद्धचित्तवान् सधीबलः बुद्धिबलयुतः श्रुतिदृष्टिस्थिराशयः वेददर्शनस्थिरश्रद्धावान् नरः बहुमुखं भोगं धत्ते। 🌷 अनन्त कीर्ति से सम्पन्न, शुद्ध अन्तःकरण वाला, बुद्धि और बल से युक्त और वेदों के दर्शन में स्थिर श्रद्धा वाला व्यक्ति अनेक प्रकार के भोगों को धारण करता है। 🌹 A person endowed with limitless glory, possessing a pure heart, endowed with intellect and strength, and having firm intent in the philosophy of the Vedas, bears many kinds of luxuries. 📍 सुभाषितनीतिः । ६।६॥ #Subhashitam

@samvadah organises संलापशाला - A Sanskrit Voicechat Room 🔰विषयः  ओषधिपरिचयः 🗓०६/०७/२०२६ ॥ IST ११:०० AM    🔴 It's recording would be shared on our channel. 📑कृपया दैववाचा चर्चार्थं कस्यचित् ओषधिपरिचयः संस्कृतेन वदनीयः इत्येतं विषयम् अभिक्रम्य आगच्छत। https://t.me/samvadah?livestream पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः https://archive.org/details/samlapshala_

१। विहारस्य मूलनगरं पाटलिपुत्रम्। • The main city of Bihar is Pataliputra. • बिहार का मुख्य नगर पाटलिपुत्र है। २। किं जानासि शाकविपणौ काम् अदृशम्। • Do you know whom I saw in the vegetable market? • क्या तुम जानते हो साग-हाट में मैंने किसे देखा? ३। ग्रामाद् बहिः कुट्यां वृद्धा निवसति। • Outside the village, the old woman lives in a hut. • गाँव के बाहर कुटिया में बुढ़िया रहती है। ४। शोभनं यत् त्वम् अवादीः। • It is good that you spoke. • अच्छा हुआ जो तुम बोले। ५। तस्य गृहं बहुविशालं वर्तते। • His house is very large. • उसका घर बहुत बड़ा है। ६। तस्या भगिनी विवाहं कर्तुं नेच्छति। • Her sister does not wish to marry. • उसकी बहन ब्याह नहीं करना चाहती। ७। मन्दुरातः अश्वाः पलायिताः। • The horses fled from the stable. • घुड़साल से घोड़े भाग गए। ८। ग्रामाध्यक्षो वामनो विद्यते। • The village head is a dwarf. • गाँव का मुखिया बौना है। ९। त्वया अध्यापितः बालकः कथम् अशुद्धं ब्रूयात्। • How should the boy taught by you speak incorrectly? • तुमसे पढ़ा हुआ लड़का कैसे अशुद्ध बोलेगा। १०। भोः सा नारी अभिचारं जानाति। • Hey! That woman knows witchcraft. • अजी, वह नारी टोना-टोटका जानती है। @samvadah #vakyabhyas

किं रूपमनुचितमस्ति।
Anonymous voting

🌿 अनङ्गलङ्घनालग्ननानाताङ्का सदङ्गना। सदानघ सदानन्द नताङ्गासङ्गसंगत॥ 🌞 सदानघ नित्यपापरहित सदानन्द नित्यानन्द नताङ्गासङ्गसंगत नम्राङ्गवत्यासङ्गहृदयङ्गम सदङ्गना सुस्त्री अनङ्गलङ्घनालग्ननानाताङ्का कामदेवकृतकर्षणात् विविधकष्टसक्ता वर्तते। 🌷 सदा पाप से रहित! सदा आनन्दित रहने वाले! नम्र अङ्गों वाली के साथ पाये हुए! सती स्त्री कामदेव के उत्पीड़न द्वारा विविध आतंकों से घिरी हुई है। 🌹 Always sinless one! Always blissful one! One who is associated with the company of the tender-limbed one! The virtuous lady is clung to various terrors due to the torment of the cupid. 📍 काव्यादर्शः । ३।९०॥ #Subhashitam

मृतकुक्कुरकथा।
पुरा कस्मिंश्चिद्ग्रामे प्रस्तरनिर्मितो गभीरकूपो ग्रामवासिनां मुख्यं पेयजलस्रोत आसीत्। एकदा कश्चन भ्रामककुक्कुरस्तस्मिन्कूपे प्रमादात्पतित्वा पञ्चत्वं जगाम। अल्पेनैव कालेन तत्कूपजलं मलिनं भूत्वा असह्यं दुर्गन्धं प्रसारयत् पानायोग्यं चाभवत्। जलस्य कस्याप्यन्यविकल्पस्याभावाद्दुःखिता ग्रामवासिनो ग्रामप्रान्ते शिविरं संस्थाप्य स्थितं कञ्चन साधुं शरणमगच्छन्। ते साधुं प्रणम्य स्वव्यथामवर्णयन्भो महाराज अस्माकमेकमेव कूपजलं यद् कुक्कुरमरणाद् दूषितं भृशं दुर्गन्धयुक्तञ्च जातमतो जलशुद्ध्यर्थमुपायं वद येन वयं पुनः कूपजलं पातुं शक्नुयामेति। शान्तभावेन शृण्वन्साधुस्तानुपादिशद्भो ग्रामवासिनो यूयं गत्वा कूपस्य दूषितजलं चत्वारिंशद्द्रोणीषु निष्कास्य क्षिपत येन दूषितजलं निर्गच्छेत् तलमूलस्थस्रोतोभ्यश्च नूतनं जलं कूपे समुदियादिति। ग्रामवासिनस्तदैव गत्वा महता परिश्रमेण चत्वारिंशद्द्रोणीपरिमितं जलं निष्कास्य प्राक्षिपन्। किन्तु यदा तैर्जलमास्वादितं तदा तस्मिन्नूतने कूपजलेऽपि स एव दुर्गन्धः प्रावर्तत। निराशास्ते पुनः साधुसमीपमगच्छन्। तदा साधुरेकमन्यमुपायं सूचयित्वावदद् ईश्वरीयस्पर्शेण जलं शुद्धं भवत्यतस्तत्पवित्रं गङ्गाजलं कूपे क्षिपतेति। ग्रामवासिनः श्रद्धया गङ्गाजलपूर्णान्घटान्कूपे न्यषिञ्चन्। तथापि महदाश्चर्यं यत्तज्जलं दुर्गन्धयुक्तमेवातिष्ठत्। ते पुनः साधुमुपागच्छन्। तदा साधुरवदत्परितः स्थितं वायुं सुगन्धितं कर्तुं कूपे सुगन्धिपुष्पाणि सुगन्धितद्रव्याणि च क्षिपतेति। आशाभरिता ग्रामवासिनो गन्धपुष्पकरण्डकान्पाटलपुष्पाणि च कूपे प्राक्षिपन्। किन्तु तदनन्तरम् अपि दुर्गन्धं न अपागच्छत्। हतोत्साहा भ्रामिताश्च ग्रामवासिनोऽन्तिमवारं साधुसमीपं गत्वावदन्भो महाराज वयं भवदुक्तान्सर्वानुपायान्कृतवन्तः चत्वारिंशद्द्रोणीपरिमितं जलं निष्कासितवन्तो गङ्गाजलं सुगन्धिपुष्पाणि सुगन्धितद्रव्याणि च कूपे निक्षिप्तवन्तः तथापि जलस्य दुर्गन्धो न नश्यति भवतामुपाया निष्फला जाता इति। सततमालिन्येनाश्चर्यचकितः साधुः स्वयं कूपं द्रष्टुं तत्रागच्छत्। कूपस्य प्रस्तराच्छादने स्थित्वा साधुर्यदा कूपस्यान्तः पश्यति स्म तदा तत्र गङ्गाजलपाटलपुष्पसुगन्धिद्रव्याणां मध्ये तस्य मृतकुक्कुरस्य शवः प्लवते स्म। साधुराश्चर्येण ग्रामवासिनोऽपृच्छदेतान्सर्वानुपायान्कर्तुं किं प्राग्यूयं मृतकुक्कुरं कूपाद्बहिर्निष्कासितवन्तो न वेति। ग्रामवासिनो भ्रान्ताः सन्तः परस्परं पश्यन्तोऽवदन्नहि महाराज भवान्केवलं जलं निष्कासयितुं गङ्गाजलं पुष्पाणि च क्षेप्तुमादिष्टवान्कुक्कुरं बहिर्निष्कासयितुं कदापि नादिष्टवानिति। साधुर्मन्दं हसित्वा शिरो धुन्वानोऽवदद्यावदयं मृतकुक्कुरः कूपस्यान्ते विद्यमानः तावन्नूतनजलं गङ्गाजलं सुगन्धिपुष्पाणि वा कूपजलं शुद्धं कर्तुं कदापि न शक्नुवन्त्यतः प्रथमं मलिनताया मूलकारणमेव बहिर्निष्कासयतेति। अस्याः कथाया अयं नीत्युपदेशोऽस्ति अत्र कूपो नामास्माकमन्तःकरणं मनश्च। मृतकुक्कुरो नामाहङ्कारक्रोधेर्ष्यालोभद्वेषादयो दुर्गुणा येऽस्माकं मनसि दुर्गन्धं प्रसारयन्ति। गङ्गाजलपुष्पसुगन्धिद्रव्याणि च तीर्थाटनयज्ञदानपुण्यदयो बाह्यसत्कर्माणि सन्ति यानि केवलं प्रदर्शनार्थं क्रियन्ते। यदि मनसि द्वेषोऽहङ्कारश्च तिष्ठति तर्हि बाह्याडम्बरेण कृतानि सत्कर्माणि शान्तिं पावित्र्यं वा न यच्छन्ति। यथा शवस्य निष्कासनेन विना कूपो न शुद्ध्यति तथैवान्तःस्थमलिनतां दूरीकरणेन विना सत्कर्माणि निरर्थकान्येव भवन्ति। अत एव सत्कर्माणि कर्तुं प्राक्प्रथमं स्वमनस अन्तःस्थमलिनतां दूरीकुर्यात्॥
#kathaa @samvadah

१। स्वामी मयि न स्निह्यति सखि। • The lord does not love me, Female friend. • सखी, स्वामी मुझसे प्यार नहीं करते। २। पुष्पेभ्योऽपि गन्धं न गृह्यते मया। • Even from the flowers, the fragrance is not taken by me. • फूलों से भी सुगंध मेरे द्वारा नहीं ली जाती। ३। तस्या मुखं दृष्ट्वैव हृदयं हारितं जनसभायाम्। • Just having seen her face, the heart was lost in the public assembly. • उसका मुँह देखते ही जनसभा में हृदय हार बैठा। ४। प्राप्य नागमणिं महातान्त्रिको भवेयम्। • Having obtained the snake-gem, I would become a great tantric. • नागमणि पाकर मैं बड़ा तांत्रिक बन जाऊँ। ५। गर्दभस्य‌ वचनं गर्दभेनैव प्रशंस्यते। • The speech of the donkey is praised only by the donkey. • गधे की बात गधे द्वारा ही प्रशंसा जाती है। ६। त्वं मम मातुरपि अतिरिच्यसे देवि। • You surpass even my mother, Goddess. • देवी, तुम मेरी माँ से भी बढ़कर हो। ७। रे जड जनक धनुः कः अभाङ्क्षीत्। • O dull-witted Janaka, who broke the bow? • अरे मूर्ख जनक, धनुष किसने तोड़ा? ८। प्रियतमो मे अर्जुनः पाण्डवेषु नारद। • Most dear to me among the Pandavas is Arjuna, Narada! • नारद! पांडवों में मुझे अर्जुन सबसे प्रिय हैं। ९। सत्यं ब्रवीषि मुनिवर परं रामे मे रतिः। • You speak the truth, best of sages, but my devotion is in Rama. • मुनिवर, तुम सच कहते हो पर राम में मेरा मन रमा है। १०। हन्येताम् उभौ परन्तु न एको विरञ्चे। • Let both be killed, but not a single one, Brahma. • दोनों मारे दिए जाएँ पर एक अकेला नहीं, ब्रह्मदेव। @samvadah #vakyabhyas

किं पदम् असाधु।
Anonymous voting

कच्चित्सर्गः #samlapshala